|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.117. अध्यायः 117
Mahabharata - Adi Parva - Chapter Topics
माण्डव्यं ऋषिं ज्ञात्वा भीतेन राज्ञा तस्य शूलाद्विमोक्षणम्॥ 1 ॥
अणीमाण्डव्यस्य यमेन विवादः॥ 2 ॥
माण्डव्यं न यमस्य शापः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-117-0x(707)(5219)
ततः स मुनिशार्दूलस्तानुवाच तपोधनान्।
दोषतः कं गमिष्यामि न हि मेऽन्योपराध्यति॥ 1-117-1(5220)
तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि।
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप॥ 1-117-2(5221)
राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः।
प्रसादयामास तदा शूलस्थमृषिसत्तमम्॥ 1-117-3(5222)
प्रजोवाच। 1-117-4x(708)
यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि॥ 1-117-4(5223)
वैशम्पायन उवाच। 1-117-5x(709)
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः।
कृतप्रसादं राजा तं ततः समवतारयत्॥ 1-117-5(5224)
अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे॥ 1-117-6(5225)
स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः।
कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत्।
पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत्॥' 1-117-7(5226)
स चातितपसा लोकान्विजिग्ये दुर्लभान्परैः॥ 1-117-8(5227)
अणीमाण्डव्य इति च ततो लोकेषु गीयते।
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्॥ 1-117-9(5228)
आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुम्।
किं नु तद्दुष्कृतं कर्म मया कृतमजानता॥ 1-117-10(5229)
यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया।
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्॥ 1-117-11(5230)
धर्म उवाच। 1-117-12x(710)
पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता।
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन॥ 1-117-12(5231)
स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः॥ 1-117-13(5232)
अणीमाण्डव्य उवाच। 1-117-14x(711)
कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम्।
तेनोक्तं धर्मराजेन बालभावे त्वया कृतम्॥ 1-117-14(5233)
अणीमाण्डव्य उवाच। 1-117-15x(712)
बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः॥ 1-117-15(5234)
अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः।
गरीयान्ब्राह्मणवधः सर्वभूतवधादपि॥ 1-117-16(5235)
शूद्रयोनावतो धर्म मानुषः संभविष्यसि।
मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम्॥ 1-117-17(5236)
आ चतुर्दशकाद्वर्षान्न भविष्यति पातकम्।
परतः कुर्वतामेव दोष एव भविष्यति॥ 1-117-18(5237)
वैशम्पायन उवाच। 1-117-19x(713)
एतेन त्वपराधेन शापात्तस्य महात्मनः।
धर्मो विदुररूपेण शूद्रयोनावजायत॥ 1-117-19(5238)
धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः।
दीर्घदर्शी शमपरः कुरूणां च हिते रतः॥ ॥ 1-117-20(5239)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तदशाधिकशततमोऽध्यायः॥ 117 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-117-1 दोषतः कंगमिष्यामि न कमपि दोषिणं कथयामि। स्वकृतमे भुञ्जे इत्यर्थः॥ 1-117-9 अणी शूलाग्रं तद्युक्तो माण्डव्यः॥ 1-117-10 उपालभत गर्हितवान्॥ 1-117-15 दिशो देशनाः धर्मशास्त्राणि यतो न प्रज्ञास्यति बालत्वात्॥ 1-117-16 ब्राह्मणवधो ब्राह्मणपीडनम्॥ 1-117-20 दीर्घदर्शी सर्वकालपरामर्शी। शमपरो निर्वैरः॥ सप्तदशाधिकशततमोऽध्यायः॥ 117 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|